ईश्वरःपरमःकृष्णःसच्चिदानन्दविग्रह:। अनादिरादिगोविन्दः सर्वकारणकारणम् ॥
यं शैवा समुपासते शिव इति ब्रह्मेति वेदान्तिनो ।
बौद्धा बुद्ध इति प्रमाणपटवः कर्त्तेति नैयायिकाः ॥
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः।
सोऽयं नो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः॥
साम्प्रतम्भारतीयदर्शनस्य ज्ञानात् प्राक् एतदवश्यमवगन्तव्यं यद् दर्शनं नाम किम् ? दर्शनशब्दः दृशिर् प्रेक्षण इत्यस्माद् धातोः करणसाधने ल्युट्प्रत्यये कृते सति सिद्ध्यत्यर्थात् दृश्यतेऽनेनेति दर्शनम् । येन कस्यचिद् वस्तुनः सम्यग् ज्ञानम्भवतीत्यर्थः। भारतवर्षे दर्शनानामुद्भवस्तत्त्वज्ञानाय अभवत् । यतोहि तत्त्वज्ञानेनैव मनुष्याणां दुःखानाम् आत्यन्तिकनिवृत्तिर्भवति । अद्यतनीयो युगो वैज्ञानिकयुगोऽस्ति अत: सर्वे सर्वत्र सर्वदा प्रमाणं वाञ्छन्ति । साम्प्रतिककालेपि भारतीयदर्शनानाम् अध्ययनेन प्रामाण्यनिश्चये नवीनाः मापदण्डा: प्र स्तोतुं शक्यन्ते। पदार्थस्य तत्त्वज्ञानाय प्रवृत्तमिदं भारतीयदर्शनं न खलु अस्मदीये भारतवर्षेऽपितु विदेशेष्वपि स्वकीयं वर्चस्वम् प्रत्यतिष्ठपत् ।
कोऽहम् ? कुत आयात:? कुत्र गन्तव्यम् ? किं कर्तव्यम् ? इयं सृष्टिः कथं सृष्टा ? किञ्च अस्याः कारणम् ? अस्यां सृष्टौ चैतन्यम् आहोस्विद् जडता? इत्यादयः प्रश्नाः चिन्तनशीलानां मनसि अहर्निशम् आयान्ति । समेषां प्रश्नानां समाधानं भारतीयदर्शनानाम् अनुशीलनेन सुष्ठु प्राप्तुं शक्यते । भारतीयदर्शनानि आस्तिकनास्तिकभेदेन द्विविधानि सन्ति । तत्र आस्तिकदर्शनानि षट् सन्ति - साङ्ख्ययोगौ न्यायवैशेषिकौ मीमांसावेदान्तौ च।
नास्तिकदर्शनानि जैन-बौद्ध-चार्वाकाः । एतत् सिद्धमेव यद् दृष्टिभेदाद् विभिन्नेषु दर्शनेषु विभिन्नाः मताः सन्ति । तथापि समेषामास्तिकदर्शनामेकमेव लक्ष्यं त्रिविधदुःखानाम् आत्यन्तिकनिवृत्तिः । तथापि रुचिभेदात् चिंतनमननभेदाद् मतभेदास्तु स्वाभाविकमेव । देशकालावस्थाधिकारिभेदात् कामं दर्शनेषु नाना मताः सन्ति परं विवेकिजनाः नानामतानां एकत्र समन्वयं कुर्वन्ति । साङ्ख्यदर्शनं त्रयाणां तत्त्वानां व्यक्ताव्यक्तज्ञानां दर्शनं कारयति। अव्यक्तं नाम मूलप्रकृतिः , अव्यक्तप्रकृते: व्यक्ताः - महद् , अहङ्कारः , पञ्च तन्मात्राणि , एकादश इन्द्रियाणि, पञ्च महाभूतानि ।
यश्च व्यक्ताव्यक्तं जानाति स ज्ञः। एतेषां त्रयाणां तत्त्वानां सम्यक् दर्शनेन दुःखस्य आत्यन्तिकनिवृत्तिःसम्भवति। योगदर्शनमपीश्वरं विहाय सर्वं साङ्ख्यदर्शनमिव । न्यायवैशेषिकदर्शने प्रमाणप्रमेयविषयाणां दर्शनं कारयतः।
पदार्थानां तत्त्वज्ञानेन मनुष्याः भोगाद् विरक्ताः सन्तः योगे सक्ता : भवन्ति अर्थात् ज्ञानेन परिपूर्णाः सन्तः स्वरूपे अवस्थातुं प्रयतमानाः भवन्ति मोक्षञ्च प्राप्नुवन्ति।
जैमिनिविरचितं मीमांसासूत्रं मीमांसादर्शनस्य मूलग्रन्थोऽस्ति। अत्र वैदिकयागेषु मन्त्राणां विनियोगविधेर् यागप्रक्रियाणाञ्च वर्णनं वर्तते। यदि योगदर्शनमन्तःकरणस्य शुद्धताया उपायं बोधयति चेन्मीमांसा दर्शनमपि सामाजिकजीवनस्य राष्ट्रीयजीवनस्य च कर्त्तव्याकर्त्तव्यान् बोधयति। येन समस्तराष्ट्रस्योन्नतिर्भवत्विति। यथा कर्मकाण्डानि मन्त्राणां विनियोगेष्वाधारितानि सन्ति तथैव मीमांसादर्शनं मन्त्राणां विनियोगस्य तद्विधानस्य च समर्थनं करोति। धर्मे जैमिनिः वेदानेव परमं प्रमाणं स्वीकरोति। जैमिनेरनुसारं यज्ञेषु मन्त्राणां विनियोगेषु श्रुतिः वाक्यं प्रकरणं स्थानं समाख्या च मूलम् अस्ति।
वेदानां संहिता- ब्राह्मण-आरण्यक-उपनिषदः चत्वारः भागाः सन्ति। उपनिषद् वेदानामन्तिमो भागोऽत एव वेदान्त इत्यपरं नाम।
वेदान्ते प्रस्थानत्रयी वर्तते- श्रुतिप्रस्थानमुपनिषद्, स्मृतिप्रस्थानं श्रीमद्भगवद्गीता, न्यायप्रस्थानं ब्रह्मसूत्रम् । प्रस्थानत्रयीमेवाधिकृत्य वेदान्तसाहित्यं बहुबृहद् अस्ति। वेदान्तस्य सिद्धान्तोऽतिसंक्षेपेणोच्येत चेद् मनुष्याः निष्कामभावेन स्वकर्मसु प्रवर्तमानाः सन्तः चित्तशुद्धिं कुर्युः। चित्तशुद्ध्यर्थमुपाय एव फलाकाङ्क्षामुक्तकर्मोच्यते। यावता चित्तशुद्धिर्न भवति तावता जिज्ञासाऽपि न भवति। जिज्ञासामन्तरेण मुमुक्षा न सम्भवति। अतश्चित्तशुद्धिरावश्यकी विवेक आवश्यकः । विवेको नाम नित्यानित्यानां पृथग्ज्ञानम् । जगति आत्मानं विहाय दृश्यमानमदृश्यमानञ्च सर्वम् अनित्यमित्यनुभवेन विवेको दृढीभवति। दृढविवेकेन वैराग्यं भवति। वैराग्यं नाम ऐहिकपारलौकिकेषु भोगेषु विरक्तिः। वैराग्यं मोक्षस्य प्रथमं कारणमस्ति। अस्मादेव शमादिसाधनानि सम्भवन्ति। एभिस्त्रिभिर्युक्ते सति जनो मुमुक्षति। मुमुक्षानन्तरं मोक्षस्य कारणं यज्ज्ञानं अस्ति तस्य उदयं भवति। विशुद्धज्ञानं विना मोक्षः कथमपि न सम्भवति।
न योगेन न साङ्ख्येन कर्मणा नो न विद्यया ।
ब्रह्मात्मकबोधेन मोक्षः सिध्यति नान्यथा॥
येषां साधनानां फलान्यनित्यानि तानि मोक्षकारणानि नैव भवन्ति।
मोक्षः जीवात्मपरमात्मनोरैक्यमभेदज्ञानं वा । जीवात्मपरमात्मनोर्भेदज्ञानस्य कारणं प्रकृतिरस्ति।
इयं प्रकृतिरेव माया अविद्या च शब्दाभ्यामुच्यते । इयं न सदस्ति नाप्यसदस्ति । अत एव अनिर्वचनीया कथ्यते । ज्ञानेनैवास्या निवृत्ति भवति। वेदान्तस्येममेव सिद्धान्तं प्रतिपादयत्ययं श्लोकः -
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ।
अनेन वेद्यं सच्छास्त्रमिति वेदान्तडिण्डिमः॥
वेदान्तदर्शने ब्रह्मजीवयोरेकत्वज्ञाने ब्रह्मवेत्ता ब्रह्मस्वरूपो भवतीत्येषैव मोक्षस्यावस्था।बह्मविद् ब्रह्मैव भवति इति श्रुतिवाक्यमत्र प्रमाणम् । पाश्चात्यदर्शनेभ्यो भारतीयदर्शनानां श्रेष्ठतां प्रतिपादयितुं पाश्चात्यविदुष इंद कथनमेवालम् - भारतीयदार्शनिकानां विषये पाश्चात्यविद्वान् टी एस एलियटमहोदयः कथयति यद् भारतीयदार्शनिकानां सौक्ष्म्यं दृष्ट्वा यूरोपीया अधिकांशा विद्वांसः प्राथमिकविद्यालयानां बालका इव प्रतिभान्तीति।
अन्ते विवदिषाम्यहं यद् अद्य वैज्ञानिकयुगेऽपि आत्मनो ज्ञानाय त्रिविधदुःखानाञ्चात्यन्तिकनिवृत्यर्थं भारतीयदर्शनमतिरिच्य नान्यः पन्था विद्यतेऽयनाय । अतोऽस्माकं समेषामपि भारतीयदर्शनमेव एकं शरणमस्ति मोक्षाय । भारतीयदर्शनानां सिद्धान्तः सार्वभौमिकः सार्वकालिकश्चास्ति । अतोऽद्यापि भारतीयदर्शनानां तादृश्येव प्रासङ्गिताऽस्ति यथा पुराकाले ।
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते।।