shabd-logo
Shabd Book - Shabd.in

मोहनदासः

डॉ. लूनेश कुमार वर्मा

5 अध्याय
21 लोगों ने खरीदा
0 पाठक
23 दिसम्बर 2022 को पूर्ण की गई
ISBN : 978-93-94582-33-0
ये पुस्तक यहां भी उपलब्ध है Amazon Flipkart

साहित्ये ज्ञानराशि: निहिता: भवन्ति। अनुवादमाध्यमेन विविधभाषासु प्रसरिता:। अनुवादमाध्यमेन साहित्येषु निहितज्ञानराशिभि: लाभान्विता: भवन्ति। संस्कृते विपुलसाहित्यरचना उपलब्धा:। अस्यां भाषायां उपलब्धग्रन्थाणां विश्वस्य विविधभाषासु अनुवादा: उपलब्धा:। विविधभाषासु उपलब्धग्रन्थान् अनुवादा: समये-समये भवत्येव। उदयप्रकाशस्य कथाधारित शोधप्रक्रमे यदाहं संलग्नो अभवम् तदा तेन लिखितं 'मोहनदास' अस्य ग्रन्थस्य अवलोकनं पठनं च मया कृतम्। अमुना ग्रन्थेन बहुप्रभावितोऽभवम्। समकालीनसमाजे सामान्यजन: भयभीत: अस्ति। कथं सामान्य जनं स्वाभाविकाधिकारात् दूरीकर्तुं तथाकथितं सभ्यसमाजस्य प्रभावशालीजना: मिलित्वा दुराचरणं कुर्वन्ति, अस्य सशक्तनिरूपणं प्रगतिशीलकथाकार: उदयप्रकाश: अस्यां कथायां कुशलतापूर्वकं कृतवन्त:। समकालीनसमाजे प्रतिभासम्पन्न:, उच्चशिक्षित:, परिश्रमी युवका: व्यवस्थया संपीड्य निराशया च स्वजीवनं नष्टं कर्तुं उद्यता: भवन्ति। 'मोहनदास' कथायां प्रमुख: पात्र: सामान्यजन: मोहनदास: व्यवस्थया पीडित: भवति। न्यायालयत: अपि समुचितं न्यायं न प्राप्तवान् स:। प्रशासनिकपदेषु प्रतिष्ठितजना: सर्वाधिकारस्य दुरूपयोगं कृत्वा भिन्न - भिन्न प्रकारेण मोहनदासं पीडां दत्तवन्त:। पीड्या मोहनदास: स्वाभाविकं जीवनमपि व्यतीतं कर्तुम् असमर्थ: आसीत्। स: न्यायालयं गत्वा शपथपत्रं दत्वा कथयति यत्- मम नाम मोहनदास: नास्ति। य: कोऽपि भवितुमिच्छति मोहनदास: …भवेत्। किन्तु येन- केन प्रकारेण मां मुञ्चेत्। अस्यां कथायां समकालीनसामाजिकार्थिकव्यवस्थाया: विद्रूपतां उद्घाटितमस्ति। मम चिन्तनमासीत् यत् श्रेष्ठसाहित्यस्य विविध भाषासु अनुवादं भवति। 'मोहनदास' अस्या: कथाया: अपि अनेकभाषासु अनुवादं अभवत्। संस्कृते अपि 'मोहनदास' कथाया: यदि अनुवादं भविष्यति तर्हि संस्कृतानुरागिण: संस्कृतमाध्यमेन अस्या: कथाया: रसास्वादनं कर्तुं समर्था: भविष्यन्ति। एवं मत्वा अहम् अस्मिन् प्रकरणे संलग्नोऽभवम्। आशास्ति इदं प्रयासं संस्कृतानुरागिणां कृते ज्ञानवर्धनाय हितकरं लाभप्रदं च भविष्यति। 

mohandash

0.0(0)

पुस्तक के भाग

1

पुस्तकस्य विषये

29 सितम्बर 2022
0
0
0

साहित्ये ज्ञानराशि: निहिता: भवन्ति। अनुवादमाध्यमेन विविधभाषासु प्रसरिता:। अनुवादमाध्यमेन साहित्येषु निहितज्ञानराशिभि: लाभान्विता: भवन्ति। संस्कृते विपुलसाहित्यरचना उपलब्धा:। अस्यां भाषायां उपलब्धग्रन्

2

सादरसमर्पणम्

29 सितम्बर 2022
0
0
0

पितरौ चरणेषुप्राक्कथनम्

3

प्राक्कथनम्

29 सितम्बर 2022
0
0
0

संस्कृतसाहित्ये विपुलज्ञानराषिः सुरक्षिताः संरक्षिताः। अस्मिन् ज्ञानराषेः अनुवादमाध्यमेन सम्पूर्णविष्वसाहित्ये प्रसारणं अभवत् भवत्येव च। अनुवादमाध्यमेन ज्ञानराषेः हस्तान्तरणं एकभाषातः भिन्नभाषासु भवति

4

उदयप्रकाषकृत ‘मोहनदास‘ कथायाः संस्कृतानुवादः मोहनदासः

29 सितम्बर 2022
0
0
0

भयस्य वर्णः कथं भवति? धूसरः, सलेटी, पीतः, अल्पं स्याहं वा भस्मिव? एतादृषं भस्मं यस्य अन्तः अग्निः इदानीं पूर्णतया समाप्तं न भवेत्!...अथवा कमपि एतत् वर्णं यस्य पृष्ठतया अकस्मात् काऽपि शून्यता निगूढं प

5

शिव

22 जुलाई 2024
0
0
0

भोले हैं शिवशिव ही भोलेसरल सहज सब से निराले।सावन में विशेषमानते जन मानसपहुंचते द्वारलेकर फूल पान।शिव हैं भोलेभक्ति अनोखे रंगभस्म हैं प्रियविष पी हुए नीलकंठ।जल दूध दधि सेकराते अभिषेकबेल पत्र और धत

---

किताब पढ़िए

लेख पढ़िए