wलघुकाय रामरक्षा स्तोत्र
बुध-कोशिक-लिखित रामरक्षा बृहत् होने से
तथा महर्षि विश्वामित्र-लिखित रामरक्षा
स्तोत्र की योग्यता न रखने वाले किन्तु रामरक्षा
के पाठ की उत्कण्ठा वाले साधकों को खिन्न
नहीं होना चाहिए ।
हम आपके समक्ष एक ऐसी रामरक्षा प्रस्तुत कर रहे हैं जो साधकों से अनुभूत है ।
इस रामरक्षा को भगवान् शिव ने अपनी प्रियतमा भगवती शिवा को प्रदान किया है। और यह पद्ममहापुराण की है । इससे आप अल्प समय
में लाभ उठा सकते हैं।
श्रीरामरक्षास्तोत्रम्
विनियोग--अस्य रामरक्षास्तोत्रस्य विश्वामित्रऋषिः,अनुष्टुप्छन्दः, श्रीरामो देवता, श्रीविष्णुप्रीत्यर्थे जपे विनियोगः ॥
अतसीपुष्पसङ्काशं पीतवाससमच्युतम् ।
ध्यात्वा वै पुण्डरीकाक्षं श्रीरामं विष्णुमव्ययम् ॥1॥
पातु वो हृदयं रामः श्रीकण्ठः कण्ठमेव च ।
नाभिं पातु मखत्राता कटिं मे विश्वरक्षकः ॥2॥
करौ पातु दाशरथिः पादौ मे विश्वरूपधृक् ।
चक्षुषी पातु वै देव: सीतापतिरनुत्तमः ॥3॥
शिखां मे पातु विश्वात्मा कर्णौ मे पातु कामदः ।
पार्श्वयोस्तु सुरत्राता कालकोटि दुरासदः ॥4॥
अनन्तः सर्वदा पातु शरीरं विश्वनायकः ।
जिह्वां मे पातु पापघ्नो लोकशिक्षाप्रवर्त्तकः ॥5॥
राघवः पातु मे दन्तान् केशान् रक्षतु केशवः ।
सक्थिनी पातु मे दत्त: विजयो नाम विश्वसृक् ॥6॥
एतां रामबलोपेतां रक्षां यो वै पुमान् पठेत् ।
स चिरायुः सुखी विद्वान् लभते दिव्यसम्पदाम् ॥7॥
रक्षां करोति भूतेभ्यः सदा रक्षतु वैष्णवी ।
रामेति रामभद्रेति रामचन्द्रेति यः स्मरेत् ॥8॥
विमुक्तः स नरः पापान् मुक्तिं प्राप्नोति शाश्वतीम् ।
वसिष्ठेन इदं प्रोक्तं गुरवे विष्णुरूपिणे ॥9॥
ततो मे ब्रह्मणः प्राप्तं मयोक्तं नारदं प्रति ।
नारदेन तु भूर्लोके प्रापितं सुजनेष्विह ॥10॥
सुप्त्वा वाऽथ गृहेवापि मार्गे गच्छेत एव वा ।
ये पठन्ति नरश्रेष्ठः ते नराः पुण्यभागिनः ॥11॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्त्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे रामरक्षास्तोत्रं नाम त्रिसप्ततितमोऽध्यायः ॥
*श्रीमहन्त*
*हर्षित कृष्णाचार्य*