*श्रीपातञ्जलयोगदर्शनम्*
योगेन चित्तस्य पदेन वाचां
मलं शरीरस्य च वैद्यकेन।
यः अपाकरोत्तं प्रवरं मुनीनां
पतञ्जलिं प्राञ्जलिरानतोऽस्मि॥
*अथ समाधिपादः*
१. अथ योग अनुशासनम्।
२. योगः चित्त वृत्ति निरोधः।
३. तदा द्रष्टुः स्वरूपे अवस्थानम्।
४. वृत्ति सारूप्यम् इतरत्र।
५. वृत्तयः पंचतय्यः क्लिष्टा अक्लिष्टाः।
६. प्रमाण विपर्यय विकल्प निद्रा स्मृतयः।
७. प्रत्यक्ष अनुमान आगमाः प्रमाणानि।
८. विपर्ययो मिथ्या ज्ञानम् अतद्रूप प्रतिष्ठम्।
९. शब्द ज्ञान अनुपाती वस्तु शुन्यो विकल्पः।
१०. अभाव प्रत्यय आलम्बना वृत्तिः निद्रा।
११. अनुभूत विषय असम्प्रमोषः स्मृतिः।
१२. अभ्यास वैराग्याभ्यां तन्निरोधः।
१३. तत्र स्थितौ यत्नो अभ्यासः।
१४. स तु दीर्घकाल निरन्तर्य सत्कार आसेवितो दृढभूमिः।
१५. दृष्ट आनुश्रविक विषय वितृष्णस्य वशीकार संज्ञा वैराग्यम्।
१६. तत्परं पुरूषख्यातेः गुणवैतृष्णम्।
१७. वितर्क विचार आनन्द अस्मिता अनुगमात् संप्रज्ञातः।
१८. विराम प्रत्यय अभ्यासपूर्वः संस्कार शेषः अन्यः।
१९. भवप्रत्ययो विदेह प्रकृतिलयानाम्।
२०. श्रद्धा वीर्य स्मृति समाधि प्रज्ञा पूर्वक इतरेषाम्।
२१. तीव्र संवेगानाम् आसन्नः।
२२. मृदु मध्य अधिमात्रत्वात् ततः अपि विशेषः।
२३. ईश्वर प्रणिधानात् वा।
२४. क्लेश कर्म विपाक आशयैः अपरामृष्टः पुरूष विशेष ईश्वरः।
२५. तत्र निरतिशयं सर्वज्ञ बीजम्।
२६. पूर्वेषाम् अपि गुरुः कालेन् अन्वच्छेदात्।
२७. तस्य वाचकः प्रणवः।
२८. तत् जपः तद् अर्थ भावनम्।
२९. ततः प्रत्यक चेतना अधिगमः अपि अन्तराय अभावः च।
३०. व्याधि स्त्यान संशय प्रमाद आलस्य अविरति भ्रान्तिदर्शन अलब्धभूमिकत्व अनवस्थितत्वानि चित्तविक्षेपाः ते अन्तरायाः।
३१. दुःख दौर्मनस्य अङ्गमेजयत्व श्र्वास प्रश्वासा विक्षेपसहभुवः।
३२. तत् प्रतिषेधार्थम् एकतत्त्व अभ्यासः।
३३. मैत्री करूणा मुदिता उपेक्षाणां सुख दुःख पुण्य अपुण्य विषयाणां भावना तः चित्तप्रसादनम्।
३४. प्रच्छर्दन विधारणाभ्यां वा प्राणस्य।
३५. विषयवती वा प्रवृत्तिः उत्पन्ना मनसः स्थिति निबन्धनी।
३६. विशोका वा ज्योतिषमती।
३७. वीतराग विषयं वा चित्तम्।
३८. स्वप्न निद्रा ज्ञान आलम्बनं वा।
३९. यथा अभिमत ध्यानात् वा।
४०. परमाणु परममहत्त्व अन्तः अस्य वशीकारः।
४१. क्षीणवृत्तेः अभिजातस्य इव मणेः ग्रहीतृ ग्रहण ग्राह्येषु तत्स्थ तदञ्जनता समापत्तिः।
४२. तत्र शब्द अर्थ ज्ञान विकल्पैः संकीर्णा सवितर्का समापत्तिः।
४३. स्मृति परिशुद्धौ स्वरूप शून्य इव अर्थमात्र निर्भासा निर्वितर्का।
४४. एत एव सविचारा निर्विचारा च सूक्ष्म विषया व्याख्याता।
४५. सूक्ष्म विषयत्वं च अलिङ्ग पर्यवसानम्।
४६. ता एव सबीजः समाधिः।
४७. निर्विचार वैशारद्ये अध्यात्म प्रसादः।
४८. ॠतम्भरा तत्र प्रज्ञा।
४९. श्रुत अनुमान प्रज्ञाभ्याम् अन्य विषया विशेष अर्थत्वात्।
५०. तज्जः संस्कारः अन्य संस्कार प्रतिबन्धी।
५१. तस्य अपि निरोधे सर्व निरोधात् निर्बीजः समाधिः।
इति श्रीपातंञ्जले योगशास्त्रे समाधिनिर्देशो नाम प्रथमः पादः।
*अथ साधनपादः*
१. तपः स्वाध्याय ईश्वर प्रणिधानानि क्रियायोगः।
२. समाधि भावनार्थः क्लेश तनू करणार्थः च।
३. अविद्या अस्मिता राग द्वेष अभिनिवेशाः क्लेशाः।
४. अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त तनु विच्छिन्न उदाराणाम्।
५. अनित्य अशुचि दुःख अनात्मसु नित्य शुचि सुख आत्मख्यातिः अविद्या।
६. दृग्दर्शन शक्त्योः एकात्मता इव अस्मिता।
७. सुख अनुशयी रागः।
८. दुःख अनुशयी द्वेषः।
९. स्वरसवाही विदुषः अपि तथा आरूढ़ः अभिनिवेशः।
१०. ते प्रतिप्रसव हेयाः सूक्ष्माः।
११. ध्यान हेयाः तद् वृत्तयः।
१२. क्लेश मूलः कर्माशयाः दृष्ट अदृृष्ट जन्म वेदनीयः।
१३. सति मूले तद् विपाकः जाति आयुः भोगाः।
१४. ते ह्लाद परिताप फलाः पुण्य अपुण्य हेतुत्वात्।
१५. परिणाम ताप संस्कार दुःखैः गुणवृत्ति विरोधात् च दुःखं इव सर्वं विवेकिनः।
१६. हेयं दुःखम् अनागतम्।
१७. द्रष्टृ दृश्ययोः संयोगो हेयहेतुः।
१८. प्रकाश क्रिया स्थिति शीलं भूत इन्द्रिय आत्मकं भोग अपवर्गार्थं दृश्यम्।
१९. विशेष अविशेष लिंगमात्र अलिङ्गानि गुणपर्वाणि।
२०. द्रष्टा दृशिमात्रः शुद्धः अपि प्रत्यय अनुपश्यः।
२१. तद् अर्थ एव दृश्यस्य आत्मा।
२२. कृतार्थं प्रति नष्टं अपि अनष्टं तद् अन्य साधारणत्वात्।
२३. स्वस्वामि शक्त्योः स्वरूप उपलब्धि हेतुः संयोगः।
२४. तस्य हेतुः अविद्या।
२५. तद् अभावात् संयोग अभावः हानं तद् दृशेः कैवल्यम्।
२६. विवेकख्यातिः अविप्लवा हानोपायः।
२७. तस्य सप्तधा प्रान्तभूमिः प्रज्ञा।
२८. योग अङ्ग अनुष्ठानात् अशुद्धिक्षये ज्ञानदीप्तिः आ विवेकख्यातेः।
२९. यम नियम आसन प्राणायाम प्रत्याहार धारणा ध्यान समाधयाः अष्टावङ्गानि।
३०. अहिंसा सत्य अस्तेय ब्रम्हचर्य अपरिग्रहा यमाः।
३१. जाति देश काल समय अनवच्छिन्नाः सार्वभौमा महाव्रतम्।
३२. शौच संतोष तपः स्वाध्याय ईश्वर प्रणिधानानि नियमाः।
३३. वितर्क बाधने प्रतिपक्ष भावनम्।
३४. वितर्का हिंसादय कृत कारित अनुमोदिता लोभ क्रोध मोह पूर्वका मृदु मध्य अधिमात्रा दुःख अज्ञान अनन्त फला इति प्रति पक्ष भावनम्।
३५. अहिंसा प्रतिष्ठायां तत् सन्निधौ वैरत्यागः।
३६. सत्य प्रतिष्ठायां क्रिया फल आश्रयत्वम्।
३७. अस्तेय प्रतिष्ठायां सर्व रत्न उपस्थानम्।
३८. ब्रम्हचर्य प्रतिष्ठायां वीर्य लाभः।
३९. अपरिग्रह स्थैर्ये जन्म कथ अन्त सम्बोधः।
४०. शौचात् स्व अङ्ग जुगुप्सा परैः असंसर्गः।
४१. सत्त्व शुद्धि सौमनस्य एकाग्र्यय इन्द्रियजय आत्मदर्शन योग्यत्वानि च।
४२. संतोषात् अनुत्तमः सुखलाभः।
४३. काय इन्द्रिय सिद्धिः अशुद्धि क्षयात् तपसः।
४४. स्वाध्यायात् इष्टदेवता संप्रयोगः।
४५. समाधि सिद्धीः ईश्वरप्रणिधानात्।
४६. स्थिर सुखम् आसनम्।
४७. प्रयत्न शैथिल्य अनन्त समापत्तिभ्याम्।
४८. ततः द्वंद्वा न अभिघातः।
४९. तस्मिन सति श्र्वास प्रश्वासयोः गति विच्छेदः प्राणायामः।
५०. बाह्य आभ्यन्तर स्तम्भ वृत्तिः देश काल संख्याभिः परिदृष्टो दीर्घ सूक्ष्मः।
५१. बाह्य आभ्यन्तर विषय आक्षेपी चतुर्थः।
५२. ततः क्षीयते प्रकाश आवरणम्।
५३. धारणा सु च योग्यता मनसः।
५४. स्व विषय असंप्रयोगे चित्त स्वरूप अनुकार इव इन्द्रियाणां प्रत्याहारः।
५५. ततः परमा वश्यता इन्द्रियाणाम्।
इति श्रीपातंञ्जले योगशास्त्रे साधननिर्देशो नाम द्वितीयः पादः।
*अथ विभूति पादः*
१. देशबन्ध चित्तस्य धारणा।
२. तत्र प्रत्यय एकतानता ध्यानम्।
३. तद् इव अर्थमात्र निर्भासं स्वरूप शून्यं इव समाधिः।
४. त्रयम् एकत्र संयमः।
५. तज्जयात प्रज्ञा आलोकः।
६. तस्य भूमिषु विनियोगः।
७. त्रयम् अन्तरग्ङं पूर्वेभ्यः।
८. तद् अपि बहिरग्ङं निर्बीजस्य।
९. व्युत्थान निरोध संस्कारयोः अभिभव प्रादुर्भावौ निरोध क्षण चित्तान्वयो निरोध परिणामः।
१०. तस्य प्रशान्त वाहिता संस्कारात्।
११. सर्वार्थता एकाग्रतयोः क्षय उदयौ चित्तस्य समाधि परिणामः।
१२. ततः पुनः शान्त उदितौ तुल्य प्रत्ययौ चित्तस्य एकाग्रता परिणामः।
१३. एतेन भूत इन्द्रियेषु धर्म लक्षण अवस्था परिणामा व्याख्याताः।
१४. शान्त उदित अव्यपदेश्य धर्म अनुपाती धर्मी।
१५. क्रम अन्यत्वम् परिणाम अन्यत्वे हेतुः।
१६. परिणाम त्रय संयमात् अतीत अनागत ज्ञानम्।
१७. शब्द अर्थ प्रत्ययानाम् इतरेतर अध्यासात् संकरः तत् प्रविभाग संयमात सर्व भूत रूत ज्ञानम्।
१८. संस्कार साक्षात्करणात् पूर्व जाति ज्ञानम्।
१९. प्रत्ययस्य परचित्त ज्ञानम्।
२०. न च तत् सालम्बनं तस्य अविषयी भूतत्वात्।
२१. काय रूप संयमात् तत् ग्राह्य शक्ति स्तम्भे चक्षुः प्रकाश असंप्रयोगे अन्तर्धानम्।
२२. सोपक्रमं निरूपक्रमं च कर्म तत् संयमात् अपरान्त ज्ञानम् अरिष्टेभ्यो वा।
२३. मैत्री आदिषु बलानि।
२४. बलेषु हस्ति बल आदीनि।
२५. प्रवृत्ति आलोक न्यासात् सूक्ष्म व्यवहित विप्रकृष्ट ज्ञानम्।
२६. भुवन ज्ञानम् सूर्ये संयमात्।
२७. चन्द्रे ताराव्यूह ज्ञानम्।
२८. ध्रुवे तद् गति ज्ञानम्।
२९. नाभिचक्रे कायव्यूह ज्ञानम्।
३०. कण्ठकूपे क्षुत् पिपासा निवृत्तिः।
३१. कूर्म नाड्यां स्थैर्यम्।
३२. मूर्धज्योतिषि सिद्धदर्शनम्।
३३. प्रातिभात् वा सर्वम्।
३४. हृदये चित्त संवित्।
३५. सत्त्व पुरुषयोः अत्यन्त असंकीर्णयोः प्रत्यय अविशेषो भोगः परार्थत्वात्, स्वार्थ संयमात् पुरूष ज्ञानम्।
३६. ततः प्रातिभ श्रावण वेदन आदर्श आस्वाद वार्ता जायन्ते।
३७. ते समाधौ उपसर्गा व्युत्थाने सिद्धयः।
३८. बन्ध कारण शैथिल्यात् प्रचार संवेदनात् च चित्तस्य पर शरीर आवेशः।
३९. उदान जयात जल पंक कंटक आदिषु असंङ्ग उत्क्रान्तिः च।
४०. समान जयात् ज्वलनम्।
४१. श्रोत्र आकाशयोः संबन्ध संयमात् दिव्यं श्रोत्रम्।
४२. काय आकाशयोः संबन्ध संयमात् लघु तूल समापत्तेः च आकाश गमनम्।
४३. बहिः अकल्पिता वृत्तिः महा विदेहा ततः प्रकाश आवरण क्षयः।
४४. स्थूल स्वरूप सूक्ष्म अन्वय अर्थवत्व संयमात् भूतजयः।
४५. ततः आणिमा आदि प्रादुर्भावः कायसंपत् तद् धर्म अनभिघातः च।
४६. रूप लावण्य बल वज्र संहननत्वानि काय संपत्।
४७. ग्रहण स्वरूप अस्मिता अन्वय अर्थवत्व संयमात् इन्द्रिय जयः।
४८. ततः मनोजवित्वं विकरणभावः प्रधान जयः च।
४९. सत्त्व पुरुषयोः अन्यता ख्याति मात्रस्य सर्व भाव अधिष्ठातृत्वं सर्व ज्ञातृत्वं च।
५०. तद् वैराग्यात् अपि दोष बीज क्षये कैवल्यम्।
५१. स्थानि उपनिमंत्रणे सङ्ग स्मय अकरणं पुनः अनिष्ट प्रसङ्गात्।
५२. क्षण तत् क्रमयोः संयमात् विवेकजं ज्ञानम्।
५३. जाति लक्षण देशैः अन्यत अन्वच्छेदात् तुल्ययोः ततः प्रतिपत्तिः।
५४. तारकं सर्व विषयं सर्वथा विषयम् अक्रमं च इति विवेकजं ज्ञानम्।
५५. सत्त्व पुरुषयोः शुद्धि साम्ये कैवल्यम् इति।
इति श्रीपातंञ्जले योगशास्त्रे विभूति निर्देशो नाम तृतीयः पादः।
*अथ कैवल्य पादः*
१. जन्म औषधि मन्त्र तपः समाधिजाः सिद्धयः।
२. जाति अन्तर परिणामः प्रकृति आपूरात्।
३. निमित्तम् अप्रयोजकं प्रकृतीनां वरण भेदस्तु ततः क्षेत्रिकवत्।
४. निर्माण चित्तानि अस्मिता मात्रात्।
५. प्रवृत्ति भेदे प्रयोजकं चित्तम् एकम् अनेकेषाम्।
६. तत्र ध्यानजम् अनाशयम्।
७. कर्म अशुक्ल अकृष्ण योगिनः त्रिविधम् इतरेषाम्।
८. ततः तद् विपाक अनुगुणानाम् एव अभिव्यक्तिः वासनानाम्।
९. जाति देश काल व्यवहितानाम् अपि आनन्तर्यं स्मृति संस्कारयोः एकरूपत्वात्।
१०. तासाम् अनादित्वं च आशिषः नित्यत्वात्।
११. हेतु फल आश्रय आलम्बनैः संगृहीतत्वात् एषाम् अभावे तत् अभावः।
१२. अतीत अनागतं स्वरूपतः अस्ति अध्वभेदात् धर्माणाम्।
१३. ते व्यक्त सूक्ष्माः गुणात्मानः।
१४. परिणाम एकत्वात् वस्तु तत्त्वम्।
१५. वस्तु साम्ये चित्त भेदात् तयोः विभक्तः पन्थाः।
१६. न च एक चित्त तन्त्रं वस्तु तत् अप्रमाणकं तदा किं स्यात्।
१७. तत् उपराग अपेक्षित्वात् चित्तस्य वस्तु ज्ञात अज्ञातम्।
१८. सदा ज्ञाताः चित्तवृत्तयः तत् प्रभोः पुरूषस्य अपरिणामित्वात्।
१९. न तत् स्वाभासं दृश्यत्वात्।
२०. एक समये च उभय अनवधारणम्।
२१. चित्त अन्तर दृश्ये बुद्धि बुद्धेः अतिप्रसङ्गः स्मृति संकरः च।
२२. चितेः अप्रतिसंक्रमायाः तत् आकार आपत्तौ स्वबुद्धि संवेदनम्।
२३. द्रष्टृ दृश्य उपरक्तं चित्तं सर्वार्थम्।
२४. तत् असंख्येय वासनाभिः चित्रम् अपि परार्थं संहत्यकारित्वात्।
२५. विशेष दर्शिन आत्मभाव भावना विनिवृत्तिः।
२६. तदा विवेकनिम्नं कैवल्य प्राग्भारं चित्तम्।
२७. तत् छिद्रेषु प्रत्यय अन्तराणि संस्कारेभ्यः।
२८. हानम् एषां क्लेशवत् उक्तम्।
२९. प्रसंख्याने अपि अकुसीदस्य सर्वथा विवेक ख्यातेः धर्ममेघः समाधिः।
३०. ततः क्लेश कर्म निवृत्तिः।
३१. तदा सर्व आवरण मल अपेतस्य ज्ञानस्य आनन्त्यात् ज्ञेयम् अल्पम्।
३२. ततः कृतार्थानां परिणाम क्रम समाप्तिः गुणानाम्।
३३. क्षण प्रतियोगी परिणाम अपरान्त निर्ग्राह्यः क्रमः।
३४. पुरूषार्थ शून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूप प्रतिष्ठा वा चिति शक्तिः इति।
इति श्रीपातंञ्जले योगशास्त्रे कैवल्य निर्देशः नाम चतुर्थः पादः।
।।समाप्तं योगदर्शनम्।।