कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ।
अन्वयः - इह कर्माणि कुर्वन् एव शतम् समाः जिजीविषेत् । एवम् कर्म त्वयि नरे न लिप्यते । इतः अन्यथा न अस्ति ।
सरलार्थः - अस्मिन् जगति मनुष्या: विहितकर्माणि कुर्वन्तः सन शतवर्षपर्यन्तं जीवितुमिच्छेयुः । एवं विधा कृतकर्मषु मनुष्या: लिप्ताः न भविष्यन्ति । एतदरिक्तं कर्मबन्धनात् मोक्षस्य अन्यः उपायः नास्ति ।