कस्यापि वस्तुन: यथार्थत: ज्ञानं विद्या इति कथ्यते।
संसारे यानि धनानि सन्ति, तेषु विद्या सर्वश्रेष्ठं धनम् अस्ति।
विद्यया मनुष्य: स्वकीयं कर्तव्यम् अकर्तव्यं च जानाति ।
विद्यया एव मनुष्य: जानाति यत् संसारे क: धर्म:, क: अधर्म:, किं पापम् किं च पुण्यम् इति।
विद्यया एव मनुष्य: सन्मार्गम् अनुसरति, कुमार्गं च परित्यजति।
विद्यया एव मनुष्य: यर्थाथत: मनुष्य: भवति।
य: विद्याहीन: अस्ति, स स्वकीयं कर्तव्यं न जानाति।
अत: कथ्यते- विद्याविहीन: पशु:, अर्थात् विद्यया रहित: नर: पशु: भवति।
सर्वाणि धनानि व्यये कृते न्यूनानि भवन्ति, परन्तु विद्या व्यये कृते वर्धते।
विद्यया मनुष्यस्य सम्मानं भवति।
विद्वान् मनुष्य: सर्वत्र सम्मानं लभते।
राजा स्वदेशे एव पूज्यते, परन्तु विद्वान् सम्पूर्णे जागति आदरं प्राप्रोति।
सर्वेषाम् एतत् कर्तव्यम् अस्ति यत् ते परिश्रमेण विद्यां पठेयु:।