!!!---: शश-सिंह-कथा :---!!!
एकस्मिन् वने एकः भयंकरः सिंहः वसति स्म । स वने इच्छानुसारेण पशून् भोजनाय मारयति स्म । अतः सर्वे पशवः भीताः अभवन् । ते सर्वे मिलित्वा विचारम् अकुर्वन् ।
प्रतिदिनम् एकैकः पशुः सिंहस्य भोजनाय स्वयं गच्छतु । स्वविचारं ते सिंहस्य समीपम् अस्थापयन् । तदा सिंहः "आम्" इति अवदत् ।
एवम् एकैकः पशुः सिंहस्य भोजनकाले प्रतिदिनम् अगच्छत् । वने पशवः निश्चिन्ताः अभवन् ।
एकस्मिन् दिवसे एकस्य शशकस्य वारः आसीत् । सः विलम्बेन सिंहसमीपम् अगच्छत् । तस्य अल्पशरीरेण, विलम्बेन आगमने च सिंहः कुपितः अभवत् । सः अवदत्---"रे दुष्ट ! कथं त्वम् एकाकी विलम्बेन चागतः ?"
बुद्धिमान् शशकः अवदत्---"राजन् ! कोपं न कुरु ।
एकः अन्यः सिंहः मार्गे मिलितः । स गुहायां तिष्ठति ।"
सिंहः अवदत्---"कुत्र सः ?
नय मां तत्र । हनिष्यामि तं दुष्टम् ।"
शशः सिंहं कूपसमीपम् अनयत् । तत्र कूपं स्वच्छायाम् सिंहः अपश्यत् । अन्यं सिंहं मत्वा कोपेन सः कूपे अकूर्दत् । तत्र स कालेन मृतः । एवं शशकस्य बुद्धिः सर्वान् पशून् अरक्षत् ।
अतः कथ्यते---"बुद्धिर्यस्य बलं तस्य ।"