अयोध्यायाः शासकस्य दशरथस्य चत्वारः पुत्राः अभवन् । तस्य तिस्रः पत्न्यः आसन् । तासां नाम सन्ति---कौशल्या, कैकेयी, सुमित्रा ।
श्रीरामः ज्येष्ठः पुत्रः आसीत् । सः बाल्यकाले एव शास्त्रेषु शस्त्रविद्यायाम् च प्रवीणः आसीत् । सीता रामस्य भार्या आसीत् । दशरथस्य आदेशेन श्रीरामः चतुर्दश वर्षाणि यावत् वने अवसत् । सीता लक्ष्मणः च अपि रामेण सह वनम् अगच्छताम् । श्रीरामस्य वियोगेन दशरथः स्वर्गम् अगच्छत् ।
वने लंकायाः नृपः रावणः छलेन सीताम् अहरत् । श्रीरामः लक्ष्मणः च इतस्ततः अभ्रमताम् । श्रीरामः सुग्रीवस्य सहायकः अभवत् । सुग्रीवस्य पवनकुमारस्य च सहायतायाः सः लंकाम् अविशत् । तत्र श्रीरामस्य रावणेन सह युद्धम् अभवत् । युद्धे श्रीरामः सकलान् राक्षसान् लंकापतिं रावणम् च अमारयत् ।
श्रीरामः रावणस्य अनुजाय विभीषणाय लंकायाः राज्यम् अयच्छत् । ततः चतुर्दश वर्षाणाम् पश्चात् सः सीतया लक्ष्मणेन च सह अयोध्यायाम् प्रत्यागच्छत् । तत्र श्रीरामस्य राजतिलकः अभवत् । श्रीरामस्य राज्ये सकलाः अपि प्रजाः सुरक्षिताः प्रसन्नाः च अभवन् । अतः रामराज्यम् प्रसिद्धम् अस्ति ।