अस्ति केरलेषु कालटिनामको ग्रामः । सः च पूर्णा (पेरियार्) नदीतीरे वर्तते । जगद्गुरुः श्रीशंकराचार्यः तस्मिन् ग्रामे जन्म अलभत । अस्य पिता शिवगुरुः माता आर्याम्बा चास्ताम् । शंकरस्य जन्मनः प्रागेव पिता दिवंगतः । मातैव पुत्रस्य पालनम् अकरोत् । यथाकालमुपनीतः सः गुरुमुपागच्छत् । जन्मनैव प्रतिभा-सम्पन्नतया असौ कुलोचिताः विद्याः शीघ्रमेव अधीतवान् ।
माता तं गृहस्थं कर्त्तुमैच्छत् । परन्तु मनसा वचसा कर्मणा च विरक्तः शंकरः अवदत्---"मातः ! संन्यासः मह्यं रोचते, तदर्थम् अनुमतिं प्रयच्छ" इति प्रार्थयत ।
माता पुत्रस्य प्रार्थनां न स्वीकृतवती । एकदा स्नातुं नदीं गतः शंकरः नक्रेण गृहीतः उच्चैः आक्रोशत् । आक्रोशं श्रुत्वा नदीतीरं गता माता पुत्रं नक्रेण गृहीतम् अपश्यत् ।
शंकरः मातरमवदत्---"अम्ब ! यदि संन्यास गृहीतं माम् अनुमंस्यसे तर्हि अहं नक्रात् मुक्तो भविष्यामि" इति ।
चेतसा अनिच्छन्ती अपि विवशा माता---"वत्स ! यथा तुभ्यं रोचते तथा कुरु" इति कष्टेन अकथयत् । सद्यः नक्रात् मुक्तः शंकरः मातुः चरणयोः प्रणामम् अकरोत् । माता च तम् अनुगृहीतवती ।
"मातः ! तव स्मरणक्षणे एव त्वत् समीपम् आगमिष्यामि" इति प्रतिज्ञाय स गृहात् निरगच्छत् । देशोद्देशं पर्यटन् परिव्राजकैः सह सः काशीं प्राप्तवान् । तत्र सः गोविन्द-पादाचार्येभ्यः वेदान्त-विद्याम् अधीतवान् ।
अनन्तरं सः मुख्यानाम् उपनिषदां व्यास-प्रणीतानां ब्रह्मसूत्राणां श्रीमद्भगवद्गीतायाः च भाष्याणि कृतवान् । एतेन संस्कृतस्य महान् उपकारः अजायत ।
ततः सः आसेतुहिमाचलं स्वस्य सिद्धान्तस्य प्रचारम् अकरोत् । अत्रान्तरे बहवः जनाः तस्य शिष्याः अभवन् ।
अद्वैत-सिद्धान्तस्य प्रचाराय परिरक्षणाय च श्रीशंकरः द्वारकायाम्, बदर्याम्, जगन्नाथपुर्याम्, शृंगेर्याम् च चतुरः मठान् समस्थापयत् । तेषाम् अधिष्ठातारः अद्यापि शंकराचार्याः कथ्यन्ते ।
अन्तकाले मात्रा स्मृतः शंकरः तत्समीपम् आगच्छत् । मातुः मरणानन्तर-कर्त्तव्यं सर्वं परिसमाप्य स सर्वतः परिभ्रमन् जनान् च ज्ञान म् उपदिशन् द्वात्रिंशे वयसि दिवंगतः ।
श्रीशंकराचार्यैः विरचितानि बहूनि स्तोत्रकाव्यानि अपि सन्ति । तेषु च "भजगोविन्दम्" स्तोत्रम् अतीव लोकप्रियम् अस्ति ।