(आधुनिक-भारते समाजस्य शिक्षायाश्च महान् उद्धारकः स्वामी दयानन्दः आसीत् । आर्यसमाज-नामकसंस्थायाः संस्थापनेन एतस्य प्रभूतं योगदानं भारतीयसमाजे गृह्यते । भारतवर्षे राष्ट्रीयतायाः बोधोSपि अस्य कार्यविशेषः आसीत् । समाजे अनेकाः दूषिताः प्रथाः खण्डयित्वा शुद्ध-तत्त्व- ज्ञान स्य प्रचाराय दयानन्दः अकरोत् । अयं निबन्धः (पोस्टः) स्वामिनो दयानन्दस्य परिचयं तस्य समाजोद्धरणे योगदानं च निरूपयति ।)
मध्यकाले नाना कुत्सितरीतयः भारतीय-समाजम् अदूषयन् । जातिवादकृतम् वैषम्यम्, अस्पृश्यता, धर्मकार्येषु आडम्बरः, स्त्रीणाम् अशिक्षा , विधवानां गर्हिता, स्थितिः, शिक्षायाः अव्यापकता इत्यादयः दोषाः प्राचीनसमाजे आसन् । अतः अनेके दलिताः हिन्दुसमाजं तिरस्कृत्य धर्मान्तरणं स्वीकृतवन्तः । एतादृशं विषमे काले ऊनविंशशतकेकेचन धर्मोद्धारकाः सत्यान्वेषिणः समाजस्य वेषम्यनिवारकाः भारतवर्षे प्रादुरभवत् । तेषु नूनं स्वामी दयानन्दः विचाराणां व्यापकत्वात् समाजोद्धरणस्य संकल्पाच्च शिखरस्थानीयः ।
स्वामिनः जन्म गुजरातप्रदेशस्य टंकारानामके ग्रामे 1824 ईस्वी वर्षेSभवत् । बालकस्य नाम मूलशंकरः इति कृतम् । संस्कृतशिक्षया एवाध्ययनस्य अस्य प्रारम्भो जातः । कर्मकाण्डिपरिवारे तादृशी एव व्यवस्था तदानीम् आसीत् । शिवोपासके परिवारे मूलशंकरस्य कृते शिवरात्रिमहापर्व उद्बोधकं जातम् । रात्रिजागरणकाले मूलशंकरेण दृष्टं यत् महादेवस्य शंकरस्य विग्रहम् आरुह्य मूषकाः विग्रहार्पितानि द्रव्यानि भक्षयन्ति ।
मूलशंकरोSचिन्तयत् यत् विग्रहोSयम् अचिञ्चित्करः । वस्तुतः देवः प्रतिमायां नास्ति । रात्रिजागरणं विहाय मूलशंकरः गृहं गतः । ततः एव मूलशंकरस्य मूर्तिपूजां प्रति अनास्था जाता । वर्षद्वयाभ्यन्तरे एव तस्य प्रियायाः स्वसुर्निधनं जातम् । ततः मूलशंकरे वैराग्यभावः समागतः । गृहं परित्यज्य विभिन्नानां विदुषां सतां साधूनाञ्च सङ्गतौ रममाणोSसौ मथुरायां विरजानन्दस्य प्रज्ञाचक्षुषः विदुषः समीपम् अगमत् । तस्मात् आर्षग्रन्थानाम् अध्ययनं प्रारभत । विरजानन्दस्य उपदेशात् वैदिकधर्मस्य प्रचारे सत्यस्य प्रसारे च स्वजीवनम् असावर्पितवान् । यत्र-तत्र धर्म-आडम्बराणां खण्डनम् अपि स चकार । अनेके पण्डिताः तेन पराजिताः तस्यमते च दीक्षिताः ।
स्त्रीशिक्षायाः विधवाविवाहस्य मूर्तिपूजाखण्डनस्य अस्पृश्यतायाः बालविवाहस्य च निवारणस्य तेन महान् प्रयासः विभिन्नैः समाजोद्धारकैः सह कृतः । स्वसिद्धान्तानां संकलनाय "सत्यार्थप्रकाश" नामकं ग्रन्थं राष्ट्रभाषायां विरच्य स्वानुयायिनां स महान्तम् उपकारं चकार । किञ्च वेदान् प्रति सर्वेषां धर्मानुयायिनां ध्यानम् आकर्षयन् स्वयं वेदभाष्याणि संस्कृत-आर्य-भाषयोः रचितवान् । प्राचीनशिक्षायां दोषान् दर्शयित्वा नवीनां शिक्षां पद्धतिम् असौ अदर्शयत् । स्वसिद्धान्तानां कार्यान्वयनाय 1875 ख्रीष्टाब्दे मुम्बईनगरे आर्यसमाज-संस्थायाः स्थापनां कृत्वा अनुयायिनां कृते मूर्त्तरूपेण समाजस्य संशोधनोद्देश्यं प्रकटितवान् ।
सम्प्रति आर्यसमाजस्य शाखाः प्रशाखाश्च देशे विदेशेषु च प्रायेण प्रतिनगरं वर्तन्ते । सर्वत्र समाजदूषणानि शिक्षामलानि च शोधयन्ति । शिक्षापद्धतौ गुरुकुलानां डी.ए.वी. (दयानन्द एंग्लो वैदिक) विद्यालयानाञ्च समूहः स्वामिनो दयानन्दस्य मृत्योः (1883 ईस्वी) अनन्तरं प्रारब्धः तदनुयायिभिः । वर्त्तमानशिक्षापद्धतौ समाजस्य प्रवर्तने च दयानन्दस्य आर्यसमाजस्य च योगदानं सदा स्मरणीयमस्ति ।