आसीत् पुरा कस्मिंश्चित् वने निसर्गरमणीयं शान्तं पवित्रं किमपि आश्रमपदम् । तत्र तपःपरायणाः ऋषयः वसन्ति स्म । ऋषीणां तपःप्रभावात् परस्परं वैरभावम् अपहाय पशवः पक्षिणश्च निर्भयं तत्र विचरन्ति स्म । क्वचित् वृक्षस्य छायायां शयालुः मृगः अदृश्यत, अपरत्र अवलोक्यते स्म, निद्रालुः सिंह-शिशुरपि , न चाभूत् कदापि तयोः परस्परं कलहः । तथाविधे आश्रमपदे कथं वा संभवेत हिंसायाः प्रसरः ।
आसीत् तत्र पारावारः कारुण्यस्य, सिन्धुः औदार्यस्य , सेतुः भवसागरस्य, वरतन्तुनामा कुलपतिः । तत्र अनेके मेधाविनः पटवश्च वटवः अपठन् । तेषु कश्चन आकृत्या मृदुलः प्रकृत्या सरलः कौत्सनामा वटुः आसीत् । अयं बालः स्वल्पेनव एव कालेन वेदानां वेत्ता, पुराणानां पठिता, दर्शनशास्त्राणां विज्ञाता चाभवत् ।
विद्याध्ययनं परिसमाप्य गुरुदक्षिणां दातुं उत्सुकः असौ कौत्सः एकदा गुरुम् उपगम्य निजेच्छा प्रकटितवान् । तस्य वचः श्रुत्वा गुरुणा कथितम्---
"तव विशुद्धया श्रद्धया, उत्कृष्टया भावनया, परमया सेवया च नितान्तमस्मि प्रीतः । तस्मात् नाहं कामये अन्यां काञ्चित् दक्षिणाम् ।"
आचार्यवाक्यं श्रुत्वा कौत्सः पुनः अवदत्---"यदि न ग्रहीष्यति भवान् मम सकाशात् किमपि, तदा ममाध्ययनं व्यर्थम् एवेति मे विश्वासः ।"
एवं रीत्या यदा कौत्सः वारं वारम् आग्रहं कृतवान् तदा कुपितेन गुरुणा कथितम्---"त्वम् मम सकाशात् चतुर्दश विद्याः अधीतवान् असि, अतः चतुर्दशकोटीः स्वर्णमुद्राः मह्यं देहि" इति ।
गुरोः वचनं श्रुत्वा कौत्सस्य मनसि चिन्ता जाता, इयत्यः मुद्राः कुतः आनेयाः ? इति । न च दृश्यते कश्चन अन्यो जनः एतावत् धनं दातुं समर्थः । तस्मात् दातृणां मध्ये श्रेष्ठस्य रघोः सकाशम् एव चलितव्यम्" इति विचार्य कौत्सः रघोः समीपम् उपागच्छत् ।
रघुश्च तदानीं विश्वजिति यज्ञे सर्वस्वं दत्तवान् आसीत् । तस्मिन् समये तत्समीपे किमपि दातुं नासीत् । रघोेः स्थितं विज्ञाय कौत्सः ततः परावर्तितुम् ऐच्छत् ।
तं तथा कुर्वन्तम् अवलोक्य रघुणा कथितम्----"कथम् इतः परावर्तते भवान् ? कृपया उच्यतां स्वाभिप्रायः निःसंकोचम् ।"
ततः कौत्सः अवदत्---"गुरुदक्षिणां दातुम् अहं चतुर्दशकोटीः स्वर्णमुद्राः वाञ्छामि । किन्तु भवतां समीपे इदानीं किमपि नास्ति इति विज्ञाय गन्तुम् इच्छामि ।"
तच्छ्रुत्वा रघुरवदत्--"कतिचित् दिनानि प्रतीक्षताम् अत्रभवान् यावदहं भवदीयाम् इच्छां पूरयितुं यतिष्ये ।"
एवं कौत्सः आश्वास्य कुबेरस्य सकाशात् धनं प्राप्तुं राजा प्रातः प्रयाणम् अकल्पयत् । रघोः अभिप्रायं ज्ञात्वा कुबेरः तस्य कोषागारम् अपरिमित-स्वर्णमुद्राभिः अपूरयत् । पूरितं कोषागारं प्रेक्ष्य प्रसन्नः रघुः कौत्सम् अवदत्----
"गृह्यतां भवता अयं निखिलः धनराशिः । सन्तुष्यतु अनेन भवताम् आचार्यवर्यः ।"
राज्ञः तद् वचः श्रुत्वा कौत्सः अवदत्---"किम् मे प्रयोजनं निखिलेन धनेन ? यावत् आनेतुम् आदिशत् मे आचार्यः तावत् कामये, न ततोSधिकम् ।"
विचित्रा खलु स्थितिः सञ्जाता । रघुः निखिलं धनराशिं दातुं कामयते, कौत्सः तु अधिकं ग्रहीतुं नेच्छति । उभयोः त्यागभावनाम् उदारताम् च विज्ञाय प्रजाः परां प्रीतिम् अविन्दन् ।