"अन्धकारं को नाशयति ? कः दिनानां , रात्रीणां, मासानाम् ऋतूनां, वर्षाणां च निर्माता ? कस्य कृपया पादपानां जीवनम् ? को नाम संसारं शीतात् रक्षति?" इत्यादीनाम् सर्वेषां प्रश्नानाम् एकम् एव उत्तरं--"सूर्यः" इति ।
यद्यपि एतेषाम् सञ्चालकः परमात्मा एव अस्ति । उपनिषदि कथितम्---
"एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ।"
अथ च---
"न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोSयमग्निः ।
तमेव भान्तम् अनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ।।"
(श्वेताश्वतरोपनिषद्---6.14)
तथापि सांसारिक-जगतः प्रकाशकः सूर्य एव । सूर्यस्योदये तमः नश्यति, सर्वत्र च प्रकाशः जायते । सूर्यस्य प्रकाशे एव वयं वस्तूनि द्रष्टुम् शक्नुमः ।
सूर्यस्य उदये दिनं भवति, तस्मिन् अस्ते च रात्रिर्जायते । यदि सूर्यो न स्याद् दिनमेव न भवेत् । दिनाभावे तु वयं सर्वे अन्धा इव भवेम । दीपकानां प्रकाशे तु जगतः सर्वे व्यवहाराः भवितुं न शक्नुवन्ति ।
सूर्यः तमः एव न नाशयति, अपितु सः शीतमपि अपनयति । सूर्याभावे तु सर्वत्र शैत्यमेव भवेत् । सति शैत्ये जीवानाम् औषधीनाम् चोत्पत्तिरेव न स्यात् । एवञ्च संसारस्य स्थितिरेव न स्यात् । पश्यामः एव वयं यत् उत्तदक्षिणयोः ध्रुवप्रदेशयोः सूर्यस्य दर्शनं दुर्लभं भवति ।
अत एव तयोः प्रदेशयोः प्रायः सर्वत्र सर्वं वर्षं हिममेव तिष्ठति । तस्मादेव कारणात् तत्राल्पाः एव जनाः निवसन्ति, तथा स्वल्पाः एव पादपाः औषधयः च जायन्ते । फलानाम् अन्नाम् तु तत्राभाव एव तिष्ठति ।
परमात्मा अस्माकं कृते अनेका कृपाः वर्षयति । येन भारतवर्षे अनेकाः पादपाः औषधयः जायन्ते । अस्मिन् देशे देवगणाः अपि जन्मने इच्छन्ति । कथितम् यत्---
"देवाः किल गीतकानि गायन्ति भारतभूमौ"
सूर्यः एव ऋतूनाम् अपि जनकः । यदा सूर्यः उत्तरायणो भवति तदा तस्य प्रकाशः ऊष्मा च तीव्रौ भवतः । तयोः आधिक्यमेव वसन्तर्तुं ग्रीष्मर्तुं चोत्पादयति । ग्रीष्मकालस्य आतपेन समुद्राणां, नदीनां, सरसां च पयांसि उद्वाष्पितानि भूत्वाSSकाशे गच्छन्ति । ततश्च मेघाः जायन्ते । एभिः मेघैरेव वर्षाः भवन्ति । वर्षाभिरेव विविधान्यन्नानि , शाकाः , पादपाः च भवन्ति ।
यदा सूर्यः दक्षिणायनो भवति, तदा तस्य प्रकाशो मन्दो जायते । एतस्मिन्नेव काले शरद्धेमन्तशिशिराणाम् ऋतूनां स्थितिर्भवति । एवं सूर्यः दिनानां रात्रीणाम् ऋतूनां च जनकः कथ्यते । ऋतूनां परिवर्तनेनैवास्य जगतः स्थितिः भवति ।
सूर्यः हि अस्मभ्यं जीवनं दत्त्वा महत् उपकरोति । अत एव वयमेतं भगवन्तं कथयामः, गायत्र्यदिभिः मन्त्रैः चैतस्य स्तुतिं कुर्मः ।